Monday, 10 February 2025

Shri Indrakshi Kavacham



|| श्री इन्द्राक्षीकवचम् ||

ॐ श्रीगणेशाय नमः ।

देव्युवाच -

भगवान् देवदेवश लोकेश्वर जगत्पते ।
इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ॥१॥

श्रीभैरव उवाच
इन्द्राक्ष्याः कवचं पुण्यं सर्वतत्त्वनिरूपिणम् ।
जगच्चिन्तामणिं नाम सर्वमन्त्रैकसाधनम् ॥२॥

यं धृत्वा कवचं ब्रह्माविष्णुर्भीमा शचीपतिः ।
यमोऽपि वरुणश्चैव कुबेरश्च दिगीश्वरः ॥३॥

ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिषूदनः ।
शिवः संहरते विश्वं जिष्णुः सुमनसां पतिः ॥४॥

दिगीश्वराश्च दिक्पाला यथावदनु भूतले ।
जगच्चिन्तामणिं वश्ये भोगमोक्षैकसाधनम् ॥५॥

सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् ।
जगच्चिन्तामणे देवि कवचस्यास्य कीर्तितः ॥६॥

देवीन्द्राक्षी परा प्रोक्ता ह्रीं बीजं शक्तिनी स्मृता ।
कीलकं प्रणवः प्रोक्तस्त्रिवर्गफलसाधने ॥७॥

अस्य श्री इन्द्राक्षीकवचस्य पुरन्दरऋषिः, बृहतीच्छन्दः, इन्द्राक्षी देवता । ह्रीं बीजं, श्रीं शक्तिः, प्रणवः कीलकम् ।
त्रिवर्गफलसाधने विनियोगः ।

ॐ ह्रीं श्रीं वज्रहस्ता मे शिरो रक्षतु सर्वदा ।
ऐं सौंः क्लीं पातु मे भालं वज्रिणी वज्रिसेविता ॥१॥

फट् स्वाहा वज्रहस्ता च पातु नेत्रे ममानिशम् ।
ॐ ह्रां कर्णौ सदा पातु ॐ श्रां गण्डौ सदावतु ॥२॥

ॐ ॐ मे नासिका पातु परमा परमेश्वरी ।
ॐ ऐं मुखं च मे पातु वीरधीरैकसुन्दरी ॥३॥

ॐ क्लीं जिह्वां सदा रक्षेद्देवता शशिसुन्दरी ।
ॐ क्लां कण्ठं ममाव्याद्वै देवता सूर्यसुन्दरी ॥४॥

ॐ सः स्कन्धौ सदा पातु देवी श्रीवह्निसुन्दरी ।
ॐ ऐं ह्रं मे उरः पातु देवता ऋक्षसुन्दरी ॥५॥

ॐ ऐं श्रीं मे स्तनौ पातु देवी कुलिशसुन्दरी ।
ॐ श्रीं ह्रीं मेऽवतात्पार्श्वे देवी श्रीतिथिसुन्दरी ॥६॥

ॐ ह्रां सौंः मेऽवतात्कुक्षिं देवी श्रीयोगसुन्दरी ।
ॐ श्रीं ह्रौं पातु मे नाभिं देवता पाशसुन्दरी ॥७॥

ॐ श्रीं मे पातु जठरं देवी कमलसुन्दरी ।
ॐ ह्रूं क्रीं पातु मे बाहू देवी खट्वाङ्गसुन्दरी ॥८॥

ॐ ह्रां श्रीं पातु मे हस्तौ देवी मार्गणसुन्दरी ।
ॐ क्रां ह्रां पातु मे ष्टष्ठं देवी भद्राङ्गसुन्दरी ॥९॥

ॐ ह्रीं सौंः पातु मे वस्तिं देवी पञ्चास्यसुन्दरी ।
ॐ श्रूं ह्रां क्रीं कटिं पातु देवता टङ्कसुन्दरी ॥१०॥

ॐ श्रीं स्रीं पातु मेशिश्नं देवी पीतनसुन्दरी ।
ॐ ह्रीं ह्रूं मेऽवताद्गुह्यं देवी पातालसुन्दरी ॥११॥

ॐ श्रीं क्लौं पातु मामूरू देवी ब्राह्मणसुन्दरी ।
ॐ ऐं स्तौंः मे रक्षेज्जानुनी देवी ब्रह्मसुन्दरी ॥१२॥

ॐ श्रींवै पातु मे जङ्घे देवता विष्णुसुन्दरी ।
ॐ स्रां ह्रां ऐं सदाऽव्यान्मे गुल्फौ गीर्वाणासुन्दरी ॥१३॥

ॐ ह्रीं श्रीं पातु मे पादौ देवता शिवसुन्दरी ।
ॐ स्रीं हूं पातु मे पूर्वे देवता यक्षसुन्दरी ॥१४॥

ॐ जुं सः पातु मे वह्रौ देवता दैत्यसुन्दरी ।
ॐ ऐं क्लीं पातु मे दक्षे देवता प्रेतसुन्दरी ॥१५॥

ॐ श्रां पातु मे नैरृत्यां देवी रक्षससुन्दरी ।
ॐ श्रीं मां पातु वारुण्यां देवी वरुणसुन्दरी ॥१६॥

ॐ क्रौं हूं पातु वायव्यं देवता वायुसुन्दरी ।
ॐ हूं पातु कौवीर्यां देवी पिशाचसुन्दरी ॥१७॥

ॐ ह्रीं श्रीं पातु मामीशे देवतेशानसुन्दरी ।
ॐ ऐं हुं पातु मामूर्ध्वे देवी गगनसुन्दरी ॥१८॥

ॐ ह्रीं अधस्तान्मे मायादेवी पन्नगसुन्दरी ।
ॐ ॐ ह्रीं मे प्रभतेऽव्याद्देवी ब्रह्माण्डसुन्दरी ॥१९॥

ॐ क्रौं क्लीं पातु मां रात्रौ देवी त्रैलोक्यसुन्दरी ।
ॐ क्लिं पातु निशीथे मां देवी श्रीकामसुन्दरी ॥२०॥

ॐ ह्रां क्रूं मां निशान्तेऽव्याद्देवता लोकसुन्दरी ।
सर्वत्र सर्वदा पातु देवी मां रूपसुन्दरी ॥२१॥

रणे राजकुले पूजे विवादे रिपुसग्रनि ।
दावाग्न्यरण्यभीतौ च पोताव्यौ जुररोगतः ॥२२॥

महाव्याधिषु मां पातु इन्द्राक्षी चेन्द्रसुन्दरी ।
ॐ ह्रीं श्रीं ऐं सौः क्लीं पायादिन्द्राक्षी मां भवाम्बुधेः ॥ २३॥

शिरसः पादपर्यन्तं पादादिमस्तकान्तकम् ।
ॐ ह्रीं श्रीं सर्वभीतिभ्यः इन्द्राक्षी पातु मे वपुः ॥२४॥

फलश्रुतिः -

इतीदं कवचं पुण्यं सर्वविद्यानिरूपणम् ।
जगच्चिन्तामणिं नाम त्रिषु लोकेशु दुर्लभम् ॥१॥

सर्वतत्त्वमयं दिव्यं सर्वतन्त्रैकरूपिणम् ।
सर्वागममयं तत्त्वं गोप्तव्यं पशुसङ्कटे ॥२॥

अर्धरात्रौ च मध्याह्ने रवौ कुङ्कुमकेन च ।
भूर्जत्वचि लिखेद्वर्म धारयेन्मूर्ध्नि वा भुजे ॥३॥

रणे सर्वान् रिपून् जित्वा कल्याणी गृहमाविशेत् ।
वन्ध्या वामभुजे धृत्वा ऋतुस्नात्वाह्नि पञ्चमे ॥४॥

धृत्वाऽचिरेण कालेन लभते तनयान् बहून् ।
ज्वरादयश्च ये रोगाः सत्रिपातादिकुष्ठकाः ॥५॥

विद्रवन्ति भयत्रस्ताः कवचस्यास्य धारणात् ।
सप्तजन्मार्जितं पापं दहत्पग्निरिवेन्धनम् ॥६॥

इन्द्रप्रभृतयो देवाः कामक्रोधादयोऽरयः ।
जीवादयश्च गुरवः शुक्राद्याः कवयस्तथा ॥७॥

भूपप्रभृतयो मर्त्या वश्यमेष्यन्ति वर्मणः ।
धारणात्पठनात्सत्यं सर्वविद्येश्वरो भवेत् ॥८॥

धनवान्पुत्रवान् श्रीमान्पठनात्साधको भवेत् ।
इतीदं कवचं गुह्यं गुह्याद्गुह्यतरं परम् ॥९॥

जगच्चिन्तामणिं नाम गोप्तव्यं च दुरात्मभ्यः ।
इन्द्राक्ष्याः सर्वसर्वस्वं सारात्सारोत्तमोत्तमम् ।
अदातव्यमवक्तव्यमित्याज्ञापरमेश्चरि ॥१०॥

॥ इति श्रीरुद्रयामले तन्त्रे इन्द्राक्षीकवचं समाप्तम् ॥

॥ शुभमस्तु ॥

Shri Indrakshi Kavacham

|| श्री इन्द्राक्षीकवचम् || ॐ श्रीगणेशाय नमः । देव्युवाच - भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ...