Thursday, 6 February 2025

Apradh Kshama Prarthana Stotram


अथ अपराधक्षमापणस्तोत्रम् 

ॐ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया |
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ||१||

आवाहनं न जानामि न जानामि विसर्जनम् |
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ||२||

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि |
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ||३||

अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् |
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ||४||

सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके |
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ||५||

अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम् |
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ||६||

कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे |
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ||७||

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु मे देवि त्वत्प्रसात्सुरेश्वरि ||८||

|| इति अपराधक्षमापणस्तोत्रं समाप्तम् ||


No comments:

Post a Comment

Shri Indrakshi Kavacham

|| श्री इन्द्राक्षीकवचम् || ॐ श्रीगणेशाय नमः । देव्युवाच - भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ...