|| दक्षिण काली ध्यान मंत्र ||
अन्यच्यध्यानम्
करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् |
कालिकां दक्षिणां दिव्यां मुण्डमाला विभूषिताम् ||१||
सद्यःछिन्नशिरः खड्गवामाधोर्ध्व कराम्बुजाम् |
अभयं वरदञ्चैव दक्षिणोर्ध्वाध: पाणिकाम् ||२||
महामेघप्रभां श्यामां तथा चैव दिगम्बराम् | कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ||३||
कर्णावतंसतानीतशव युग्मभयानकाम् |
घोर दंष्ट्रा करात्मास्यां पीनोन्नत पयोधराम् ||४||
शवानां कर सङ्घातैः कृतकाञ्चीं हसन्मुखीम् | सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ||५||
घोररूपां महारौद्रीं श्मशानालयवासिनीम् |
दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ||६||
शवरूपमहादेवहृदयोपरि संस्थिताम् |
शिवाभिर्घोररूपाभिश्चतुर्द्विक्षु समन्विताम् ||७||
महाकालेन साद्धोर्ध्वमुपविष्टरतातुराम् |
(महाकालेन च समं विपरीत रतातुराम्) | सुखप्रसन्नवदना स्मेरानन सरोरुहाम् ||८||
(इति अन्यच्यध्यानम्)
No comments:
Post a Comment