Saturday, 8 February 2025

Sri Lalitha Tripurasundari Hriday Stotram



|| श्रीललितात्रिपुरसुन्दर्यै नमः ||

॥ अथ श्रीमत् ललितात्रिपुरसुन्दरीहृदयस्तोत्रसाधना ॥

ॐ शुद्धस्फटिकसङ्काशं द्विनेत्रं करुणानिधिम् ।
वराभयकरं वन्दे श्रीगुरुं शिवरूपिणम् ॥१॥

भक्ताज्ञानतमोभानुं मूर्ध्नि पङ्कजसंस्थितम् ।
सदाशिवमयं नित्यं श्रीगुरुं प्रणमाम्यहम् ॥२॥

श्रीविद्यां जगतां धात्रीं सर्गस्थितिलयेश्वरीम् ।
नमामि ललितां नित्यं महात्रिपुरसुन्दरीम् ॥३॥

बिन्दुत्रिकोणसंयुक्तं वसुकोणसमन्वितम् ।
दशकोणद्वयोपेतं भुवनारसमन्वितम् ॥४॥

दलाष्टकसमोपेतं दलषोडशकान्वितम् ।
वृत्तत्रयान्वितं भूमिसदनत्रयभूषितम् ॥५॥

नमामि ललिताचक्रं भक्तानामेतदिष्टदम् ।
अमृताम्भोनिधौ तत्र रत्नद्वीपं नमाम्यहम् ॥६॥

नानावृक्षमहोद्यानं वन्देऽहं कल्पवाटिकाम् ।
सन्तानवाटिकां वन्दे हरिचन्दनवाटिकाम् ॥७॥

मन्दारवाटिकां वन्दे पारिजाताख्यवाटिकाम् ।
नमामि तव देवेशि कदम्बवनवाटिकाम् ॥८॥

पुष्परागमहारत्नप्राकारं प्रणमाम्यहम् ।
पद्मरागाख्यमणिभिः प्राकारं सर्वदा भजे ॥९॥

गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये ।
वैडूर्यरत्नप्राकारं प्रणमामि तवेश्वरि ॥१०॥

इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् ।
मुक्तारत्नमयं चैव प्राकारं सर्वदा भजे ॥११॥

मरकताख्यमहारत्नप्राकाराय नमस्तव ।
विद्रुमाख्यमहारत्नप्राकारं तु तवाश्रये ॥१२॥

माणिक्यमण्डपं वन्दे सहस्रस्तम्भमण्डपम् ।
ललिते तव देवेशि भजाम्यमृतवापिकाम् ॥१३॥

आनन्दवापिकां वन्दे भजे चैव विमर्शिकाम् ।
भजे बालातपोद्गारं चन्द्रिकोद्गारमाश्रये ॥१४॥

महाश‍ृङ्गारपरिखां महापद्माटवीं भजे ।
चिन्तामणिमहारत्नगृहराजं नमाम्यहम् ॥१५॥

पूर्वाम्नायमयं पूर्वद्वारं देवि भजामि ते ।
दक्षिणाम्नाय रूपं ते दक्षिणद्वारमाश्रये ॥१६॥

नमामि ते परं द्वारं पश्चिमाम्नायरूपकम् ।
वन्देऽहमुत्तरं द्वारमुत्तराम्नायरूपकम् ॥१७॥

ऊर्ध्वाम्नायमऽहं वन्दे ऊर्ध्वद्वारं कुलेश्वरि ।
ललिते तव देवेशि महासिंहासनं भजे ॥१८॥

ब्रह्मात्मकमञ्चपादमेकं तव नमाम्यहम् ।
एकं विष्णुमयं मञ्चपादं तव नमाम्यहम् ॥१९॥

एकं रुद्रमयं मञ्चपादं तव नमाम्यहम् ।
मञ्चपादं नमाम्येकं तव देवीश्वरात्मकम् ॥२०॥

मञ्चैकफलकं वन्दे सदाशिवमयं शुभम् ।
नमामि ते हंसतूलतलिमां परमेश्वरि ॥२१॥

भजामि ते हंसतूल महोपाधानमुत्तमम् ।
कौसुम्भास्तरणं देवि तव नित्यं नमाम्यहम् ॥२२॥

मानसपूजा ।

महावितानकं वन्दे महाजवनिकां भजे ।
एवं पूजागृहं ध्यात्वा श्रीचक्रस्य शिवप्रिये ॥२३॥

मद्दक्षिणे स्थापयामि भागे पुष्पाक्षतादिकम् ।
अभितस्ते महादेवि दीपाँस्तान् दर्शयाम्यहम् ॥२४॥

मूलेन त्रिपुराचक्रं तव सम्पूजयाम्यहम् ।
त्रिभिःखण्डैस्तव त्र्यस्त्रं पूजयामि शिवप्रिये ॥२५॥

वाय्वग्निजलसंयुक्तप्राणायामैरहं शिवे ।
शोषणं दाहनं देवि करोम्याप्लावनं तथा ॥२६॥

त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहम् ।
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥२७॥

ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।
करोम्यनेन मन्त्रेण तालत्रयमहं शिवे ॥२८॥

नारायणोऽहं ब्रह्माऽहं भैरवोऽहं शिवोऽस्म्यहम् ।
देवोऽहं परमात्माऽहं महात्रिपुरसुन्दरि ॥२९॥

ध्यात्वैवं वज्रकवचं न्यासं तव करोम्यहम् ।
कुमारीबीजसंयुक्तं महात्रिपुरसुन्दरि ॥३०॥

मां रक्ष रक्षेति हृदि करोम्यञ्जलिमीश्वरि ।
नमो देव्यासनायेति ते करोम्यासनं शिवे ॥३१॥

चक्रासनं नमस्यामि सर्वमन्त्रासनं भजे ।
साध्यसिद्धासनं वन्दे मन्त्रैरेभिर्महेश्वरि ॥३२॥

करोम्यस्मिंश्चक्रमन्त्रदेवतासनमुत्तमम् ।
करोम्यथ षडङ्गाख्यं मातृकाश्च करोम्यहम् ॥३३॥

वशिन्याद्यष्टकं न्यासं षोढान्यासं करोम्यहम् ।
महाषोढां ततः कुर्वे नवयोन्याख्यमुत्तमम् ॥३४॥

चक्रन्यासं ततः कुर्वे श्रीकण्ठन्यासमुत्तमम् ।
केशवादि महान्यासं कामन्यासं करोम्यहम् ॥३५॥

कलान्यासं ततः कुर्वे कुर्वे कामकलाह्वयम् ।
पीठन्यासं ततः कुर्वे तत्त्वन्यासं करोम्यहम् ॥३६॥

ततः करोमि स्थित्यादिन्यासं तत् त्रिपुरेश्वरि ।
ततः शुद्धोदकेनाहं वामभागे महेश्वरि ॥३७॥

करोमि मण्डलं वृत्तं चतुरस्रं शिवप्रिये ।
पुष्पैरभ्यर्च्य साधारं शङ्खं संस्थापयाम्यहम् ॥३८॥

अर्चयामि षडङ्गेन जलमापूरयाम्यहम् ।
ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितम् ॥३९॥

तज्जलेन जगन्मातस्त्रिकोणं वृत्तसंयुतम् ।
षट्कोणं चतुरस्त्रं च मण्डलं प्रकरोम्यहम् ॥४०॥

विद्यया पूजनं मध्ये खण्डैस्त्र्यस्त्राभिपूजनम् ।
बीजावृत्या कोणषट्कं पूजयामि शिवप्रिये ॥४१॥


तस्मिन् दशकलायुक्तमग्निमण्डलमाश्रये ।
धूमार्चिषं नमस्यामि ऊष्मां च ज्वलिनीं भजे ॥४२॥

ज्वलिनीं च नमस्यामि वन्देऽहं विस्फुल्लिङ्गिनीम् ।
सुश्रियं च सुरूपां च कपिलां प्रणमाम्यहम् ॥४३॥

नौमि हव्यवहां नित्यं भजे कव्यवहां कलाम् ।
यादिभिः सहिता वह्नेः कला दश तथा भजे ॥४४॥

सूर्यस्य मण्डलं तत्र कलाद्वादशकात्मकम् ।
अर्घ्यपात्रे त्वऽहं वन्दे तपिनीं तापिनीं भजे ॥४५॥

धूम्रां मरीचिं वन्देऽहं ज्वालिनीं च रुचिं भजे ।
सुषुम्णां भोगदां वन्दे भजे विश्वां च बोधिनीम् ॥४६॥

धारिणीं च क्षमां वन्दे सौरा एताः कला भजे ।
सोमस्य मण्डलं तत्र कलाः षोडशकात्मकाः ॥४७॥

अर्घ्यामृतात्मकं वन्देऽमृतां मानदां स्तुवे ।
पूषां तुष्टिं भजे पुष्टिं रतिं धृतिमहं भजे ॥४८॥

शशिनीं चन्द्रिकां वन्दे कान्तिं ज्योत्स्नां श्रियं भजे ।
नौमि प्रीतिं चाङ्गदां च पूर्णां पूर्णामृतां भजे ॥४९॥

स्वरैः षोडशभिर्युक्ता भजे सोमस्य वै कलाः ।
त्रिकोणलेखनं कुर्वे अकथादिसुरेखकम् ॥५०॥

हळक्षवर्णसंयुक्तं स्थितान्तर्हंसभास्वरम् ।
वाक्कामशक्तिसंयुक्तं हंसेनाराधयाम्यहम् ॥५१॥

वृत्ताद्बहिः षडस्रे च लेखनं प्रकरोम्यहम् ।
पुरोभागादि षट्कोणं षडङ्गेनार्चयाम्यहम् ॥५२॥

श्रीविद्यायाः सप्तवारं करोम्यत्राभिमन्त्रणम् ।
समर्पयामि विश्वेशि तस्मिन् गन्धाक्षतादिकम् ॥५३॥

ध्यायामि पूजाद्रव्यं ते सर्वं विद्यामयं शुभम् ।
चतुर्नवति सन्मन्त्रान् स्पृष्ट्वा तत्प्रजपाम्यहम् ॥५४॥

वह्नेर्दशकलाः सूर्यकलाद्वादशकं भजे ।
आश्रये षोडशकलास्तत्र सोमस्य कामदाः ॥५५॥

सृष्टिमृद्धिं स्मृतिं वन्दे मेधां कान्तिं नमाम्यहम् ।
लक्ष्मीं धृतिं स्थिरांवन्दे स्थितिं सिद्धिं भजाम्यहम् ॥५६॥

एतां ब्रह्मकलां वन्दे जरां तां पालिनीं भजे ।
शान्तिं नमामीश्वरीं च रतिं वन्दे च कामिकाम् ॥५७॥

वरदां ह्लादिनीं वन्दे प्रीतिं दीर्घां भजाम्यहम् ।
टादिभिः सहिता विष्णोः कला दश तथा भजे ॥५८॥

एता विष्णोः कला वन्दे तीक्ष्णां रौद्रीं भयां तथा ।
निद्रां तन्द्रां क्षुधां वन्दे नमामि क्रोधिनीं क्रियाम् ॥५९॥

उद्गारीं च भजे मृत्युमेता रुद्रकला भजे ।
पीतां श्वेतां भजे नित्यमरुणां च तथा भजे ॥६०॥

भजेऽसितां तथाऽनन्तां षादिभिः सहितास्तथा ।
ईश्वरस्य कला ह्येता वन्दे नित्यमभीष्टदाः ॥६१॥

निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं नमाम्यहम् ।
इन्धिकां दीपिकां चैव रेचिकां मोचिकां तथा ॥६२॥

परां सूक्ष्मां नमस्यामि नौमि सूक्ष्मामृतां कलाम् ।
वन्दे ज्ञानां कलां चैव तथा ज्ञानामृतां कलाम् ॥६३॥

आप्यायिनीं व्यापिनीं च व्योमरूपां नमाम्यहम् ।
कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ॥६४॥

हांसाख्यं च महामन्त्रं ज्योतिषं हंसमाश्रये ।
प्रतत्प्रथमविश्वान्तं मन्त्रं ज्योतिषमाश्रये ॥६५॥

त्र्यम्बकं च नमस्यामि तद्विष्णोः प्रणमाम्यहम् ।
विष्णुर्योनिं मूलविद्यां मन्त्रैरेभिरनुत्तमैः ॥६६॥

अमृतं मन्त्रितं वन्दे चतुर्नवतिभिस्तव ।
अखण्डैकरसानन्दकरेऽपरसुधात्मनि ॥६७॥

स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ।
अकुलस्थामृताकारे शुद्धज्ञानकरे परे ॥६८॥

अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।
तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि ॥६९॥

भूत्वा परामृताऽऽकारा मयि चित्स्फुरणं कुरु ।
अमृतेशीं नमस्यामि सर्वदामृतवर्षिणीम् ॥७०॥

वाग्वादिनीं नमस्यामि श्रीविद्यां प्रणमाम्यहम् ।
एभिर्मनूत्तमैर्वन्दे मन्त्रितं परमामृतम् ॥७१॥

ज्योतिर्मयमिदं कुर्वे परमर्घ्यं महेश्वरि।
तद्बिन्दुभिर्मे शिरसि त्रिगुरून् पूजयाम्यहम् ॥७२॥

ब्रह्माऽहमस्मि तद्बिन्दुं कुण्डलिन्या जुहोम्यहम् ।
हृच्चक्रस्था महादेवीं महात्रिपुरसुन्दरीम् ॥७३॥

निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् ।
नासापुटे परकलामथ निर्गमयाम्यहम् ॥७४॥

समानयामि तां हस्ते त्रिखण्डकुसुमाञ्जलौ ।
जगन्मातर्महादेवि महात्रिपुरसुन्दरि ॥७५॥

सुधाचैतन्यमूर्तिं ते कल्पयामि नमः शिवे ।
अनेन मनुना देवि यन्त्रे त्वां स्थापयाम्यहम् ॥७६॥

महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥७७॥

देवेशि भक्तिसुलभे सर्वावरणसंयुते ।
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥७८॥

अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् ।
कल्पयामि नमः पाद्यमर्घ्यं ते कल्पयाम्यहम् ॥७९॥

सुगन्धतैलाभ्यङ्गं च मज्जशालाप्रवेशनम् ।
कल्पयामि नमस्तस्मिन् मणिपीठोपवेशनम् ॥८०॥

दिव्यस्नानीयमीशानि गृहाणोद्वर्तनं शुभम् ।
गृहाणोष्णोदकस्नानं कल्पयामि नमस्तव ॥८१॥

हेमकुम्भच्युतैस्तीर्थैः कल्पयाम्यभिषेचनम् ।
कल्पयामि नमस्तुभ्यं धौतेन परिमार्जनम् ॥८२॥

बालभानुप्रतीकाशं दुकूलपरिधानकम् ।
अरुणेन दुकूलेनोत्तरीयं कल्पयामि ते ॥८३॥

प्रवेशनं कल्पयामि तवालेपनमण्डपम् ।
नमस्ते कल्पयाम्यत्र मणिपीठोपवेशनम् ॥८४॥

अष्टगन्धैः कल्पयामि सर्वाङ्गेषु विलेपनम् ।
कालागरु महाधूपस्तव केशभरस्य हि ॥८५॥

मल्लिकामालतीजातीचम्पकादिमनोरमैः ।
रचिताःकुसुमैर्मालाः कल्पयामि नमस्तव ॥८६॥

प्रवेशनं कल्पयामि नमो भूषणमण्डपम् ।
उपवेशं रत्नपीठे तत्र ते कल्पयाम्यहम् ॥८७॥

नवमाणिक्यमुकुटं तच्चन्द्रशकलं ततः ।
ततः सीमन्तसिन्दूरं ततस्तिलकमुत्तमम् ॥८८॥

कालाञ्जनं कल्पयामि पालीयुगलमुत्तमम् ।
मणिकुण्डलयुग्मं ते नासाभरणमीश्वरि ॥८९॥

ते कल्पयामि त्रिपुरे ललिताऽधरयावकम् ।
अथाऽऽद्यभूषणं कण्ठे हेमचिन्ताकमुत्तमम् ॥९०॥

पदकं ते कल्पयामि महापदकमुत्तमम् ।
कल्पयामि नमो मुक्तावलिमेकावलिं च ते ॥९१॥

छन्नवीरं च केयूरयुगलानां चतुष्टयम् ।
वलयावलिमीशानि ऊर्मिकावलिमीश्वरि ॥९२॥

काञ्चीदामकटीसूत्रं सौभाग्याभरणं च ते ।
त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् ॥९३॥

पादाङ्गुलीयकं तुभ्यं पाशमेककरे तव ।
अन्यस्मिन्नङ्कुशं देवि पुण्ड्रेक्षुधनुषं परे ॥९४॥

अपरे पुष्पबाणाँश्च श्रीमन्माणिक्यपादुके ।
नवावरणदेवीभिर्महाचक्राधिरोहणम् ॥९५॥

कामेश्वराङ्कपर्यङ्क उपवेशनमुत्तमम् ।
सुधासवाख्यं चषकं ततः आचमनीयकम् ॥ ९६॥

कर्पूरवीटिकां तुभ्यं कल्पयामि नमः शिवे ।
आनन्दोल्लासवेलासहासं ते कल्पयाम्यहम् ॥९७॥

मङ्गलारार्तिकं देवि छत्रं ते कल्पयाम्यहम् ।
ततश्चामरयुग्मं ते दर्पणं कल्पयाम्यहम् ॥९८॥

तालवृन्तं कल्पयामि गन्धं पुष्पं महेश्वरि ।
धूपं दीपं च नैवेद्यं कल्पयामि नमस्तव ॥९९॥

अथाऽहं वैन्दवे चक्रे सर्वानन्दमयात्मिके ।
रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् ॥१००॥

ध्यानम् ।

उद्यद्भानुसहस्राभ्यां जपापुष्पसमप्रभाम् ।
नवरत्नप्रभादीप्तमुकुटेन विराजिताम् ॥१०१॥

चन्द्ररेखासमोपेतां कस्तूरीतिलकाञ्चिताम् ।
कामकोदण्डसौन्दर्यनिर्जितभ्रूलतायुगाम् ॥१०२॥

अञ्जनाञ्चितनेत्रां तां पद्मपत्रनिभेक्षणाम् ।
मणिकुण्डलसंयुक्तकर्णद्वयविराजिताम् ॥१०३॥

मुक्तामाणिक्यखचितनासिकाभरणान्विताम् ।
मदपाटलसंयुक्तकपोलयुगलान्विताम् ॥१०४॥

पक्वबिम्बफलाभासाधरद्वयविराजिताम् ।
शुद्धमुक्तावलिप्रख्यदन्तपङ्क्तिविराजिताम् ॥१०५॥

ताम्बूलपूरितमुखीं सुस्मितास्यविराजिताम् ।
आद्यभूषणसंयुक्तां हेमचिन्ताकसंयुताम् ॥१०६॥

पदकेन समोपेतां महापदकसंयुताम् ।
मुक्तावलिसमोपेतामेकावलिविराजिताम् ॥१०७॥

केयूराङ्गदसंयुक्तचतुर्बाहुविराजिताम् ।
अष्टगन्धसमोपेतां श्रीचन्दनविलेपनाम् ॥१०८॥

हेमकुम्भसमप्रख्यस्तनद्वयविराजिताम् ।
रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुताम् ॥१०९॥

सूक्ष्मरोमावलीयुक्ततनुमध्यविराजिताम् l मुक्तामाणिक्यखचितकाञ्चीयुतनितम्बिनीम् ॥११०॥

सदाशिवाङ्कस्थपृथुमहाजघनमण्डलाम् ।
कदलीस्तम्भसङ्काशऊरुयुग्मविराजिताम् ॥१११॥

कदलीकान्तिसङ्काशजङ्घायुगलशोभिताम् ।
गूढगुल्फद्वयोपेतां रक्तपादयुगान्विताम् ॥११२॥

ब्रह्माविष्णुमहादेवशिरोमुकुटजातया ।
कान्त्या विराजितपदां भक्तत्राणपरायणाम् ॥११३॥

इक्षुकार्मुकपुष्पेषु पाशाङ्कुशधरां पराम् ।
संवित्स्वरूपिणीं देवीं ध्यायामि परमेश्वरीम् ॥११४॥

इति ध्यानम् ।

प्रदर्शयाम्यथ शिवे नवमुद्रा वरप्रदाः ।
त्वां तर्पयामि त्रिपुरे त्रिधा मूलेन पार्वति ॥११५॥

आग्नेय्यामीशदिग्भागे नैऋत्यां मारुते तथा ।
मध्ये दिक्षु षडङ्गानि क्रमादभ्यर्चयाम्यहम् ॥११६॥

आद्यां कामेश्वरीं वन्दे नमामि भगमालिनीम् ।
नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहम् ॥११७॥

वह्निवासां नमस्यामि महावज्रेश्वरीं स्तुवे ।
शिवदूतीं नमस्यामि त्वरितां कुलसुन्दरीम् ॥११८॥

नित्यां नीलपताकां च विजयां सर्वमङ्गलाम् ।
ज्वालामालां च चित्रां च महानित्यां च संस्तुवे ॥११९॥

दिव्यौघेभ्यो नमस्यामि परेशपरमेश्वरीम् ।
मित्रेशमथ षष्ठीशमुड्डीशं प्रणमाम्यहम् ॥१२०॥

चर्यानाथं नमस्यामि लोपामुद्रामहं भजे ।
अगस्त्यं प्रणमस्यामि सिद्धौघे कालतापनम् ॥१२१॥

धर्माचार्यं नमस्यामि मुक्तकेशीश्वरं भजे ।
भजे दीपकलानाथं मानवौघे ततः परम् ॥१२२॥

विष्णुदेवं नमस्यामि प्रभाकरमहं भजे ।
तेजोदेवं नमस्यामि मनोजमथ संस्तुवे ॥१२३॥

कल्याणदेवं कलये रत्नदेवं भजाम्यहम् ।
वासुदेवं नमस्यामि श्रीरामानन्दमाश्रये ॥१२४॥

परमेष्ठिगुरुं वन्दे परमं गुरुमाश्रये ।
श्रीगुरुं प्रणमस्यामि मूर्ध्नि ब्रह्मबिले स्थितम् ॥१२५॥

कं बिलेऽहं नमस्यामि श्रीगुरोः पादुकां ततः ।
अथ प्राथमिके देवि चतुरस्रे तवेश्वरि ॥१२६॥

अणिमां लघिमां वन्दे महिमां प्रणमाम्यहम् ।
ईशित्वसिद्धिं वन्देऽहं वशित्वं च नमाम्यहम् ॥१२७॥

प्राकाम्यसिद्धिं वन्देऽहं भुक्तिमिच्छामहं भजे ।
प्राप्तिसिद्धिं सर्वकामप्रदासिद्धिमहं भजे ॥१२८॥

मध्यमे चतुरस्रेऽहं ब्राह्मीं माहेश्वरीं भजे ।
कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहम् ॥१२९॥

माहेन्द्रीमपि चामुण्डां महालक्ष्मीमहं भजे ।
तृतीये चतुरस्रेऽहं सर्वसंक्षोभिणीं भजे ॥१३०॥

सर्वविद्राविणीं मुद्रां सर्वाकर्षिणिकां भजे ।
मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे ॥१३१॥

भजे महाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहम् ।
बीजमुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीम् ॥१३२॥

त्रैलोक्यमोहनं चक्रं नमामि ललिते तव ।
नमामि योगिनीं तत्र प्रकटाख्यामभीष्टदाम् ॥१३३॥

सुधार्णवासनं वन्दे तत्र ते परमेश्वरि ।
चक्रेश्वरीं तत्र वन्दे त्रिपुरां परमेश्वरीम् ॥१३४॥

सर्वेसंक्षोभिणीं मुद्रां ततोऽहं कलये शिवे ।
अथाऽहं षोडशदले कामाकर्षणिकां भजे ॥१३५॥

बुद्ध्याकर्षणिकां वन्देऽहङ्काराकर्षणीं भजे ।
शब्दाकर्षणिकां वन्दे स्पर्शाकर्षणिकां भजे ॥१३६॥

रूपाकर्षणिकां वन्दे रसाकर्षणिकां भजे ।
गन्धाकर्षणिकां वन्दे चित्ताकर्षणिकां भजे ॥१३७॥

धैर्याकर्षणिकां वन्दे स्मृत्याकर्षणिकां भजे ।
नामाकर्षणिकां वन्दे बीजाकर्षणिकां भजे ॥१३८॥

आत्माकर्षणिकां वन्दे ह्यमृताकर्षणीं भजे ।
शरीराकर्षणीं वन्दे नित्यां श्रीपरमेश्वरीम् ॥१३९॥

सर्वाशापूरकं चक्रं कलयेऽहं तवेश्वरि ।
गुप्ताख्यां योगिनीं वन्दे तत्राऽहं गुप्तपूजिताम् ॥१४०॥

पीताम्बुजासनं तत्र नमामि ललिते तव ।
त्रिपुरेशीं महादेवीं भजामीष्टार्थंसिद्धिदाम् ॥१४१॥

सर्वंविद्राविणीं मुद्रां तत्राऽहं तां विचिन्तये ।
शिवे तवाष्टपत्रेऽहमनङ्गकुसुमां भजे ॥१४२॥

अनङ्गमेखलां वन्दे ह्यनङ्गमदनां भजे ।
ततोऽहं प्रणमस्यामि ह्यनङ्गमदनातुराम् ॥१४३॥

अनङ्गरेखां कलये भजे तेऽनङ्गवेगिनीम् ।
भजेऽनङ्गाङ्कुशां देवि तव चानङ्गमालिनीम् ॥१४४॥

सर्वसंक्षोभणं चक्रं तत्राऽहं कलये सदा ।
वन्दे गुप्ततराख्यां तां योगिनीं सर्वकामदाम् ॥१४५॥

तत्राऽहं प्रणमस्यामि देव्यात्मासनमुत्तमम् ।
नमामि जगदीशानीमऽहं त्रिपुरसुन्दरीम् ॥१४६॥

सर्वाकर्षणिकां मुद्रां तत्राऽहं कलयामि ते ।
भुवनारे तव शिवे सर्वसंक्षोभिणीं भजे ॥१४७॥

सर्वविद्राविणीं वन्देऽहं सर्वाकर्षिणिकां भजे ।
सकलाह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे ॥१४८॥

सकल स्तम्भिनीं वन्दे कलये सर्वजृम्भिनीम् ।
वशङ्करीं नमस्यामि सर्वरञ्जनिकां भजे ॥१४९॥

सकलोन्मादिनीं वन्दे भजे सर्वार्थसाधिनीम् ।
सम्पत्तिपूरिणीं वन्दे सर्वमन्त्रमयीं भजे ॥१५०॥

भजाम्यहं ततः शक्तिं सर्वद्वन्द्वक्षयङ्करीम् ।
तत्राऽहं कलये चक्रं सर्वसौभाग्यदायकम् ॥१५१॥

नमामि जगतां धात्रीं सम्प्रदायाख्ययोगिनीम् ।
शिवे तव नमस्यामि श्रीचक्रासनमुत्तमम् ॥१५२॥

नमामि जगदीशानीमहं त्रिपुरवासिनीम् ।
कलयेऽहं तव शिवे मुद्रां सर्ववशङ्करीम् ॥१५३॥

बहिर्दशारे ते देवि सर्वसिद्धिप्रदां भजे ।
सर्वसम्पत्प्रदां वन्दे भजे सर्वप्रियङ्करीम् ॥१५४॥

नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीम् ।
सर्वकामप्रदां वन्दे सर्वदुःखविमोचिनीम् ॥१५५॥

सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् ।
सर्वाङ्गसुन्दरीं देवीं सर्वसौभाग्यदायिनीम् ॥१५६॥

सर्वार्थसाधकं चक्रं तथाऽहं कलये सदा ।
कलयामि ततो देवीं कुलोत्तीर्णाख्ययोगिनीम् ॥१५७॥

सर्वमन्त्रासनं वन्दे त्रिपुराश्रीयमाश्रये ।
कलयामि ततो मुद्रां सर्वोन्मादनकारिणीम् ॥१५८॥

अन्तर्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् ।
सर्वशक्तिं नमस्यामि सर्वैश्वर्यप्रदां भजे ॥१५९॥

सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीम् ।
सर्वाधारस्वरूपां च सर्वपापहरां भजे ॥१६०॥

सर्वानन्दमयीं वन्दे सर्वरक्षास्वरूपिणीम् ।
प्रणमामि महादेवीं सर्वेप्सितप्रदां भजे ॥१६१॥

सर्वरक्षाकरं चक्रं तत्राऽहं कलये सदा ।
निगर्भयोगिनीं वन्दे तत्राऽहं परमेश्वरीम् ॥१६२॥

साध्यसिंहासनं वन्दे भजे त्रिपुरमालिनीम् ।
कलयामि ततो देवि मुद्रां सर्वमहाङ्कुशाम् ॥१६३॥

अष्टारे वशिनीं वन्दे भजे कामेश्वरीं सदा ।
मोदिनीं विमलां वन्दे ह्यरुणां जयिनीं भजे ॥१६४॥

सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् ।
सर्वरोगहरं चक्रं तवाऽहं देवि चिन्तये ॥१६५॥

रहस्ययोगिनीं देवीं सदाऽहं कलयामि ते ।
नमामि त्रिपुरासिद्धां भजे मुद्रां च खेचरीम् ॥१६६॥

महात्रिकोणस्य बाह्ये चतुर्दिक्षु महेश्वरि ।
नमामि जृम्भ्णान् बाणान् चापं सम्मोहनं भजे ॥१६७॥

पाशं वशङ्करं वन्दे भजे स्तम्भनमङ्कुशम् ।
त्रिकोणेऽहं जगद्धात्रीं महाकामेश्वरीं भजे ॥१६८॥

महावज्रेश्वरीं वन्दे महाश्रीमालिनीं भजे ।
महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदाम् ॥१६९॥

सर्वसिद्धिप्रदं चक्रं तव देवि नमाम्यहम् ।
नमाम्यतिरहस्याख्यां योगिनीं तत्र कामदाम् ॥१७०॥

त्रिपुराम्बां नमस्यामि बीजमुद्रां नमाम्यहम् ।
मूलमन्त्रेण ललिते त्वां बिन्दौ पूजयाम्यहम् ॥१७१॥

सर्वानन्दमयं चक्रं नमामि ललिते तव ।
परापररहस्याख्यां योगिनीं कलये सदा ॥१७२॥

महाचक्रेश्वरीं वन्दे योनिमुद्रामहं भजे ।
धूपादिकं सर्वमयि ते कल्पयाम्यहम् ॥१७३॥

त्वत्प्रीतये महामुद्रां दर्शयामि ततः शिवे ।
त्रिधा त्वां मूलमन्त्रेण तर्पयामि ततः शिवे ॥१७४॥

शाल्यन्नं मधुसंयुक्तं पायसापूपसंयुतम् ।
घृतसूपसमायुक्तं सर्वभक्ष्यसमन्वितम् ॥१७५॥

ससितं क्षीरसंयुक्तं बहुशाकसमन्वितम् ।
निक्षिप्य काञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥१७६॥

सङ्कल्प्य बिन्दुना वक्त्रं कुचौ बिन्दुद्वयेन च ।
योनिं तु सपरार्धेन कृत्वा श्रीत्रिपुरे तव ॥१७७॥

एतत् कामकलारूपं भक्तानां सर्वकामदम् ।
सर्वसम्पत्प्रदं वन्दे नमस्ते त्रिपुरेश्वरि ॥१७८॥

वामभागे त्रिकोणं च वृत्तं च चतुरस्रकम् ।
कृत्वा गन्धाक्षताद्यैश्च ह्यर्चयामि महेश्वरि ॥१७९॥

वाग्भवाद्यं नमस्यामि तत्र व्यापकमण्डलम् ।
जलयुक्तार्द्रान्नयुक्तं मकारत्रयभाजनम् ॥१८०॥

तत्र विन्यस्य दास्यामि भूतेभ्यो बलिमुत्तमम् ।
नमस्ते देवदेवेशि नमस्त्रैलोक्यवन्दिते ॥१८१॥

नमः परशिवाङ्कस्थे नमस्त्रिपुरसुन्दरि ।
प्रदक्षिणां नमस्कारं मनसाऽहं करोमि ते ॥१८२॥

ततः सकलमन्त्राणां सम्राज्ञीं परमेश्वरीम् ।

प्रजपामि महाविद्यां त्वत्प्रीत्यार्थमहं सदा ।
तव विद्यां प्रजप्त्वाऽथ स्तौमि त्वां परमेश्वरीम् ॥१८३॥

महादेवि महेशानि सदाशिव महाप्रिये ।
महानित्ये महासिद्धे त्वामहं शरणं व्रजे ॥१८४॥

जय त्वं त्रिपुरे देवि ललिते जगदीश्वरि ।
सदाशिवप्रियकरि पाहि मां करुणाकरि ॥१८५॥

जगन्मातर्जगद्रूपे जगदीश्वरवल्लभे ।
जगन्मये जगस्तुल्ये गौरि त्वामहमाश्रये ॥१८६॥

अनाद्ये सर्वलोकानामाद्ये भक्तेष्टदायिनि ।
गिरिराजस्य तनये नमस्ते त्रिपुरेश्वरि ॥१८७॥

जयादिदेवदेवेशि ब्रह्ममातर्नमोऽस्तु ते ।
विष्णुमातरनाद्यन्ते हरमातः सुरेश्वरि ॥१८८॥

ब्रह्मादिसुरसंस्तुत्ये लोकत्रयवशङ्करि ।
सर्वसम्पत्प्रदे नित्ये त्वामहं कलये सदा ॥१८९॥

नित्यानन्दे निराधारे चिद्रूपिणि शिवप्रिये ।
अणिमादिगुणाधारे त्वां सदा कलयाम्यहम् ॥१९०॥

ब्राह्म्यादिमातृसंस्तुत्ये सर्वावरणसंयुते ।
ज्योतिर्मये महारूपे पाहि मां त्रिपुरे सदा ॥१९१॥

लक्ष्मीवाण्यादिसम्पूज्ये ब्रह्मविष्णुशिवस्तुते ।
भजामि तव पादाब्जं सर्वकामफलप्रदम् ॥१९२॥

सर्वशक्तिसमोपेतं सर्वाभीष्टफलप्रदे ।
नमामि तव पादाब्जं देवि त्रिपुरसुन्दरि ॥१९३॥

त्वत्प्रियार्थं ततः कांश्चिच्छक्तिं सम्पूजयाम्यहम् ।
मपञ्चकेन तां शक्तिं तर्पयामि महेश्वरि ॥१९४॥

तयोपेतं हविःशेषं चिदग्नौ प्रजुहोम्यहम् ।
त्वत्प्रियार्थं महादेवि ममाभीष्टार्थसिद्धये ॥ १९५॥

बद्ध्वा तां खेचरीं मुद्रां क्षमस्वोद्वासयाम्यहम् ।
तिष्ठ मे हृदये नित्यं त्रिपुरे परमेश्वरि ॥१९६॥

जगदम्बे महाराज्ञि महाशक्ति शिवप्रिये ।
हृच्चक्रे तिष्ठ सततं महात्रिपुरसुन्दरि ॥१९७॥

सर्वलोकैकसम्पूज्ये सकलावरणैर्युते ।
हृच्चक्रे तिष्ठ मे नित्यं महात्रिपुरसुन्दरि ॥१९८॥

॥ फलश्रुति ॥

एतत् त्रिपुरसुन्दर्या हृदयं सर्वकामदम् ।
महारहस्यं परमं दुर्लभं दैवतैरपि ॥१॥

साक्षात् सदाशिवेनोक्तं गुह्याद्गुह्यमनुत्तमम् ॥२॥

यः पठेन्नित्यमेकाग्रः श‍ृणुयाद् वा समाहितः ।
नित्यपूजाफलं देव्याः स लभेन्नात्र संशयः ॥३॥

पापैः स मुच्यते सद्यः कायवाक्चित्तसम्भवैः ।
सर्वजन्मसमुद्भूतैर्ज्ञानकृतैरपि ॥४॥ 

सर्वक्रतुषु यत्पुण्यं सर्वतीर्थेषु यत् फलम् ।
तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥५॥

अचलां लभते लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् ।
साक्षाद् विष्णुसमो मर्त्यो शीघ्रमेव भवेत् सदा ॥६॥

अष्टैश्वर्यमवाप्नोति स शीघ्रं मानवोत्तमः ।
गुटिकापादुकासिद्ध्याद्यष्टकं शीघ्रमश्नुते ॥७॥

शङ्खाद्या निध्यो वाऽपि तं नित्यं पर्युपासते ।
वश्यादीन्यष्टकर्माणि शीघ्रं सिद्ध्यन्ति सर्वदा ॥८॥

भूलोकस्थाः सर्वनार्यः पातालस्थाः सदाङ्गनाः ।
सर्वलोकस्थिताः सर्वा याश्चान्यारूपगर्विताः ॥९॥

रमन्ते तेन सततं शीघ्रं वश्या न संशयः ।
राजाद्याः सकला मर्त्याः हरहर्यादयः सुराः ॥१०॥

अनन्ताद्या महानागाः सिद्धयोगेश्वरादयः ।
ऋषयो मुनयो यक्षास्तं नित्यं पर्युपासते ॥११॥

महतीं कीर्तिमाप्नोति शिवविष्णुसमप्रभाम् ।
परमं योगमासाद्य खेचरो जायते सदा ॥१२॥

अपमृत्युविनिर्मुक्तः कालमृत्युविवर्जितः ।
परमायुष्यमाप्नोति हरहर्यादिदुर्लभम् ॥१३॥

अश्रुतानि च शास्त्राणि व्याचष्टे विधिवत् सदा ।
मूढोऽपि सर्वविद्यावान् दक्षिणामूर्तिवद्भवेत् ॥१४॥

ग्रहभूतपिशाचाद्या यक्षगन्धर्वराक्षसाः ।
एतस्य स्मरणादेव विनश्यन्ति हि सर्वदा ॥१५॥

तद्गात्रं प्राप्य सकलं विषं सद्यो विनश्यति ।
सहस्रकामसङ्काशः कान्त्या यः सर्वदा भवेत् ॥१६॥

तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् ।
जपेद् यः सर्वदा साक्षाद् भवेद् देवीस्वरूपकः ॥१७॥

साङ्गं त्रिपुरसुन्दर्या नित्यपूजाफलं लभेत् ।
विमुक्तो रोगसङ्घातैरारोग्यं महदश्नुते ॥१८॥

प्राप्नोति महदैश्वर्यं सर्वविद्यानिधिर्भवेत् ।
तत्करस्पर्शमात्रेण नरो ब्राह्मणतां लभेत् ॥१९॥

मुच्यते सकलैर्विघ्नैः स नित्यं मानवोत्तमः ।
स भुङ्क्ते सकलान् भोगान् दुर्लभांश्च दिने दिने ॥२०॥

लभते पुत्रपौत्रांश्च महालक्ष्मीसमन्वितान् ।
परमायुष्यसंयुक्तान् साक्षच्छिवसमान् गुणैः ॥२१॥

सृष्टिपालनसंहारकर्तेवायं सदा भवेत् ।
यस्ते कृपावान् भवति स त्रिमूर्तिर्न संशयः ॥२२॥

तत्समीपस्थितः शीघ्रं सदा जातिस्मरोभवेत् ।
तस्य गेहे सदा कामधेनुः कल्पतरुस्तथा ॥२३॥

चिन्तामणिश्च सततं तिष्ठत्येव न संशयः ।
महाजयमवाप्नोति सदा सर्वत्र मानवः ॥२४॥

वज्रकायसमो भूत्वा चरत्येव जगत्ययम् ।
महासुखी भवेन्नित्यं परमात्मा भवेत् सदा ॥२५॥

मुच्यते सकलेभ्योऽपि बन्धनैः श‍ृङ्खलादिभिः ।
तं पूजयन्ति सततं हरिरुद्रादयोऽपि च ॥२६॥

शुभमेव भवेन्नित्यं सदापद्भिर्विमुच्यते ।
देवगन्धर्वरक्षाद्यैर्ब्रह्माद्यैरपि दुर्लभान् ॥२७॥

प्राप्नोति सकलान् कामान् शीघ्रमेव न संशयः ।
दिव्यभोगयुतो दिव्यकन्याभिः सह संयुतः ॥२८॥

विमानं स समास्थाय दिव्याभरणभूषितः ।
दिव्यचन्दनलिप्ताङ्गः सदा विंशतिवार्षिकः ॥२९॥

स भुङ्क्ते सकलान् भोगान् देवलोके नरः सदा ।
तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् ।
जपेद्यः सततं भक्त्या भवेत् साक्षात् सदा शिवः ॥३०॥

॥ इति श्री रुद्रयामले ईश्वरपार्वतीसंवादे
श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ॥

Instagram link:
https://www.instagram.com/devi_shaktipeeth?igsh=dHAzbWNqOWhxd3U=

Facebook link:
https://www.facebook.com/share/15kCRjWf67/

YouTube link:
https://www.youtube.com/@devishaktipeeth



No comments:

Post a Comment

Shri Indrakshi Kavacham

|| श्री इन्द्राक्षीकवचम् || ॐ श्रीगणेशाय नमः । देव्युवाच - भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ...